वांछित मन्त्र चुनें

प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु । यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥

अंग्रेज़ी लिप्यंतरण

pra nūnaṁ jāyatām ayam manus tokmeva rohatu | yaḥ sahasraṁ śatāśvaṁ sadyo dānāya maṁhate ||

पद पाठ

प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ । यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥ १०.६२.८

ऋग्वेद » मण्डल:10» सूक्त:62» मन्त्र:8 | अष्टक:8» अध्याय:2» वर्ग:2» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयं मनुः) यह मननशील विद्वान् ज्ञानदाता (नूनं प्रजायताम्) अवश्य प्रसिद्ध होवे (तोक्म-इव रोहतु) अल्प आयुवाले बालक के समान बढ़े (यः शताश्वं सहस्रम्) जो सौ संख्या घोड़ोंवाले वह भी सहस्रगुणित जितने ज्ञान (दानाय सद्यः-मंहते) दान के लिये तुरन्त प्रवृत्त हो ॥८॥
भावार्थभाषाः - ज्ञान का प्रदान करनेवाला दिनोंदिन बढ़े, छोटे बालक जिससे सहस्रगुणित ज्ञान आदान करने को समर्थ हो सकेगा ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयं मनुः-नूनं प्रजायताम्) एष मननशीलो विद्वान् ज्ञानदाताऽवश्यं प्रसिद्धो भवतु (तोक्म-इव रोहतु) अपत्यम्-अल्पायुष्कं नवजातं बालकमिव वर्धताम् “तोक्म-अपत्यनाम” [निघ० २।२] (यः शताश्वं सहस्रम्) यः शतसङ्ख्याश्वकं तदपि सहस्रमिव ज्ञानम् “सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते” [मनु० ४।२२३] (दानाय सद्यः-मंहते) दानाय सद्यः प्रवर्तते ॥८॥